|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.131. अध्यायः 131
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
तारकासुरबाधितैर्देवैर्ब्रह्माणं प्रति स्वेषां पार्वतीशापेनानपत्यत्वकथनपूर्वकमसुरवधोपायकथनप्रार्थना॥ 1 ॥ ब्रह्मणां देवान्प्रति अग्नेरसन्निहितत्वेन देवीशापाविषयतया देवेन स्ववीर्यनिरोधकाले भुवि प्रस्कन्नकिञ्चिद्वीर्यांशस्य तस्मिन्संसृष्टतया च तेन गङ्गायां कुमारोत्पादनकथनेनाग्न्यन्वेषणचोदना॥ 2 ॥ अग्निना देवानां प्रार्थनया गङ्गायां स्वयंसृष्टरुद्रवीर्याधानम्॥ 3 ॥ गङ्ग्याऽग्निता स्वस्मिन्नाहितगर्भस्य मेरुगिरौ समुत्सर्जने तदीयतेजोव्याप्तयावद्वस्तूनां काञ्चनीभावप्राप्तिः॥ 4 ॥ एवं भीष्मेण सुवर्णोत्पत्तिप्रकारकथनम्॥ 5 ॥
Mahabharata - Anushaasana Parva - Chapter Text
name="anuzAsana-13-131-1x">देवा ऊचुः।
असुरस्तारको नाम त्वया दत्तवरः प्रभो।
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम्॥ 13-131-1(86432)
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह।
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः॥ 13-131-2(86433)
ब्रह्मोवाच। 13-131-3x(7172)
समोहं सर्वभूतानामधर्मं नेह रोचये।
हन्यतां तारकः क्षिप्र सुरर्षिगणबाधिता॥ 13-131-3(86434)
वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः।
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः॥ 13-131-4(86435)
देवा ऊचुः। 13-131-5x(7173)
वरदानाद्भगवतो दैतेयो बलगर्वितः।
देवैर्न शक्यते हन्तु स कथं प्रशमं व्रजेत्॥ 13-131-5(86436)
स हि नैव स्म देवानां नासुराणां न रक्षसाम्।
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह॥ 13-131-6(86437)
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते।
न भविष्यति वोऽपत्यमिति सर्वे जगत्पते॥ 13-131-7(86438)
ब्रह्मोवाच। 13-131-8x(7174)
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः।
स उत्पादयिताऽपत्यं वधाय त्रिदशद्विषाम्॥ 13-131-8(86439)
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्।
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः॥ 13-131-9(86440)
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति।
यतो वो भयपुत्पन्नं ये चान्ये सुरशत्रवः॥ 13-131-10(86441)
सनातनो हि सङ्कल्पः काम इत्यभिधीयते।
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत्॥ 13-131-11(86442)
तत्तजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्।
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति॥ 13-131-12(86443)
स तु नावाप तं शापं नष्टः स हुतभुक्तदा।
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः॥ 13-131-13(86444)
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्।
तारकस्य वधोपायः कथितो वै मयाऽनघाः॥ 13-131-14(86445)
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै।
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै॥ 13-131-15(86446)
हन्यादवध्यान्वरदानपि चैव तपस्विनः।
सङ्कल्पाभिरुचिः कामः सनातनतमोऽभवत्॥ 13-131-16(86447)
जगत्पतिरनिर्देश्य सर्वगः सर्वभावनः।
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः॥ 13-131-17(86448)
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः।
स वो मनोगतं कामं देवः सम्पादयिष्यति॥ 13-131-18(86449)
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः।
जग्मु- संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम्॥ 13-131-19(86450)
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह।
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः॥ 13-131-20(86451)
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः।
लोकानन्वचरन्सिद्धाः सर्व एव भृगूत्तम।
नष्टमात्मनि संलीनं नाभिजग्मुर्हुताशनम्॥ 13-131-21(86452)
ततः संजातसंत्रासानग्निदर्शनलालसान्।
जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः।
उवाच देवान्मण्डूको रसातलतलोत्थितः। 13-131-22(86453)
रसातलतले देवा वसत्यग्निरिति प्रभो।
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम्॥ 13-131-23(86454)
स संसुप्तो जले देवा भगवान्हव्यवाहनः।
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम्॥ 13-131-24(86455)
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः।
तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना॥ 13-131-25(86456)
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः।
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्॥ 13-131-26(86457)
हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम्।
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै॥ 13-131-27(86458)
तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ।
अन्यत्र वासाय विभुर्न चात्मानमदर्शयत्॥ 13-131-28(86459)
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम।
यत्तच्छृणु महाबाहो गदतो मम सर्वशः॥ 13-131-29(86460)
देवा ऊचुः। 13-131-30x(7175)
अग्निशापादजिह्वाऽपि रसज्ञानबहिष्कृताः।
सरस्वतीं बहुविधां यूममुच्चारयिष्यथ॥ 13-131-30(86461)
बिलवासं गतांश्चैव निराहारानचेतसः।
गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति॥ 13-131-31(86462)
तमोघनायामपि वै निशायां विचरिष्यथ।
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्॥ 13-131-32(86463)
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम्।
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः॥ 13-131-33(86464)
अश्वत्थस्थोऽग्निरित्येवमाह देवान्भृगूद्वह।
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्च्छितः॥ 13-131-34(86465)
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह।
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः।
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया॥ 13-131-35(86466)
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो।
देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः॥ 13-131-36(86467)
देवा ऊचुः। 13-131-37x(7176)
प्रतीपया जिह्वयाऽपि सर्वाहारान्हरिष्यथ।
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम्।
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः॥ 13-131-37(86468)
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भमुपाविशत्।
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्॥ 13-131-38(86469)
शशाप सुकमग्निस्तु वाग्विहीनो भविष्यसि।
जिह्वामावर्तयामास तस्यापि हुतभुक्तदा॥ 13-131-39(86470)
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः।
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति॥ 13-131-40(86471)
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति।
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्॥ 13-131-41(86472)
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः।
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि॥ 13-131-42(86473)
तदाप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते।
उत्पादने तथोपायमभिजग्मुश्च मानवाः॥ 13-131-43(86474)
आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना।
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव।
पावकेनाधिशयता सन्तप्तास्तस्य तेजसा॥ 13-131-44(86475)
अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा।
किमागमनमित्येवं तानपृच्छत पावकः॥ 13-131-45(86476)
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः।
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति।
कृते च तस्मिन्भविता तवापि सुमहान्गुणः॥ 13-131-46(86477)
अग्निरुवाच। 13-131-47x(7177)
ब्रूत यद्भवतां कार्यं कर्तास्मि तदहं सुराः।
भवतां तु नियोज्योस्मि मावोत्रास्तु विचारणा॥ 13-131-47(86478)
देवा ऊचुः। 13-131-48x(7178)
असुरस्तारको नाम ब्रह्मणो वरदर्पितः।
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम्॥ 13-131-48(86479)
इमान्देवगणांस्तात प्रजापतिगणांस्तथा।
ऋषींश्चापि महाभाग परित्रायस्व पावक॥ 13-131-49(86480)
अपत्यं तेजसा युक्तं प्रवीरं जनयक प्रभो।
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन॥ 13-131-50(86481)
शप्तानां नो महादेव्या नान्यदस्ति परायणम्।
अन्यत्र भवतो वीर तस्मात्त्रायस्व नः प्रभो॥ 13-131-51(86482)
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यवाहनः।
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति॥ 13-131-52(86483)
तया चाप्यभवन्मिश्रो गर्भं चास्यां दधे तदा।
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा॥ 13-131-53(86484)
तेजसा तस्य देवस्य गङ्गा विह्वलचेतना।
सन्तापमगमत्तीव्रं वोढुं सा न शशाक ह॥ 13-131-54(86485)
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते।
गङ्गायामसुरः कश्चिद्भैरवं नादमानदत्॥ 13-131-55(86486)
अबुद्धिपतितेनाथ नादेन विपुलेन सा॥
वित्रस्तोद्धान्तनयना गङ्गा विप्लुतलोचना॥ 13-131-56(86487)
विसंज्ञा नाशकद्गर्भं वोढुमात्मानमेव च।
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी॥ 13-131-57(86488)
उवाच ज्वलनं विप्र तदा गर्भबलोद्धुता।
नते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे॥ 13-131-58(86489)
विमूढाऽस्मि कृताऽनेन न मे स्वास्ध्यं यथा पुरा।
विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ 13-131-59(86490)
धारणे नास्य शक्ताऽहं गर्भस्य तपतांवर।
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन॥ 13-131-60(86491)
न तेजसाऽस्ति संस्पर्शो मम देव विभावसो।
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते॥ 13-131-61(86492)
यदत्र गुणसम्पन्नमितरद्वा हुताशन।
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ॥ 13-131-62(86493)
तामुवाच ततो वह्निर्धार्यतां धार्यतामिति।
गर्भो मत्तेजसा युक्तो महागुणफलोदयः॥ 13-131-63(86494)
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा।
न हि ते किञ्चिदप्राप्यमन्यतो धारणादृते॥ 13-131-64(86495)
`एवमुक्ता तु सा देवी तत्रैवान्तरधीयत।
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्।
जगामेष्टं तदा देशं ततो भार्गवनन्दन॥' 13-131-65(86496)
सा वह्निना वार्यमाणा देवैरपि सरिद्वरा।
समुत्ससर्ज तं गर्भं मेरौ गिरिवेर तदा॥ 13-131-66(86497)
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता।
नाशकत्सा तदा गर्भं सन्धारयितुमोजसा।
समुत्ससर्ज तं दुःखाद्दीप्तवैश्वानरप्रभम्॥ 13-131-67(86498)
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह।
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः॥ 13-131-68(86499)
कीदृग्गुणोपि वा देवि कीदृग्रूपश्च दृश्यते।
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे॥ 13-131-69(86500)
गङ्गोवाच। 13-131-70x(7179)
जातरूपः स गर्भो वै तेजसा त्वमिवानघ।
सुवर्णो विमलो दीप्तः पर्वतं चावभासयन्॥ 13-131-70(86501)
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः।
गन्धोस्य स कदम्बानां तुल्यो वै तपतांवर॥ 13-131-71(86502)
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः।
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च।
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत॥ 13-131-72(86503)
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च।
व्यादीपयत्तेजसा च त्रैलोक्यं सचराचरम्॥ 13-131-73(86504)
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन।
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः॥ 13-131-74(86505)
वसिष्ठ उवाच। 13-131-75x(7180)
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत।
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्।
जगामेष्टं ततो देशं तदा भार्गवनन्दन॥ 13-131-75(86506)
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते।
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा।
पृथिवी च तदा देवी ख्याता वसुमतीति वै॥ 13-131-76(86507)
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः।
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः॥ 13-131-77(86508)
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्।
जातस्नेहास्तु तं बालं पुपुषुः स्तन्यविस्रवैः॥ 13-131-78(86509)
ततः स कार्तिकेयत्वमवाप परमद्युतिः।
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत्॥ 13-131-79(86510)
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः।
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्॥ 13-131-80(86511)
ततःप्रभृति चाप्येतञ्जातरूपमुदाहृतम्।
रत्नानामुत्तमं रत्नं भूषणानां तथैव च॥ 13-131-81(86512)
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्।
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः॥ 13-131-82(86513)
पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः।
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्॥ ॥ 13-131-83(86514)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः॥ 131 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-131-13 नष्टः अदर्शं गतः॥ 7-131-16 कामः काम्यमानो वह्निः॥ 7-131-21 नष्टं अदर्शनं गतम्। आत्मनि जले जलस्य तेजोजन्यत्वात्॥ 7-131-26 मृग्यतां साधयिष्याम इति थ.ध.पाठः॥ 7-131-27 न रसानिति। रसनेन्द्रियहीनो भविष्यसीत्यर्थः॥ 7-131-28 नच देवानदर्शयदिति थ.ध.पाठः॥ 7-131-30 अजिह्वा अपीति च्छेदः॥ 7-131-39 जिह्वां च कर्तयामासेति ड.पाठः॥ 7-131-41 बालस्येव प्रवृत्तस्येति ड.थ.ध.पाठः॥ 7-131-44 ऊष्मा ऊष्माणम्। अदिशयता अधिशयानेन। पावकेनाधिशयिता इति ट.ध.पाठः॥ 7-131-53 दधे आदधे। गर्भश्वास्याभवत्तदेति थ.पाठः॥ 7-131-54 सोढुं सा न शशाक हेति थ.पाठः॥ 7-131-56 अबुद्धिपतितेन अकस्माज्जातेन॥ 7-131-61 न चेतसास्ति संस्पर्श इति थ.पाठः॥ 7-131-71 कदम्बानां कदम्बपुष्पाणाम्॥ 7-131-83 अग्निष्टोभात्मकं चैवेति थ.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|